sri-load-ganesha-vidya-kilak-stotra
sri-load-ganesha-vidya-kilak-stotra

Sri Ganesh Kilak Stotram

– Shri Niranjan Manmadkar

श्री गणेश कीलक स्तोत्रम्

श्रीगणेशाय नमः

दक्ष उवाच

गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् |
मंत्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ||1||

मुद्गल उवाच

कीलकेन विहीनाश्च मंत्रा नैव सुखप्रदा |
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ||2 ||

तदा वीर्ययुता मंत्रा नानासिद्धिप्रदायकाः |
भवंति नात्र संदेहः कथयामि यथाश्रुतम् ||3||

समादिष्टं चांगिरसा मह्यं गुह्यतमं परम् |
सिद्धिदं वै गणेशस्य कीलकं श्रुणु मानद ||4||

अस्य श्रीगणेशकीलकस्य। शिव ऋषिः। अनुष्टुप् छंदः। श्रीमहागणपतिर्देवता ।
ॐ गँ योगाय स्वाहा ॐ गँ बीजम्।
विद्याऽविद्याशक्तिः। श्रीमहागणपति प्रीत्यर्थे जपे विनियोगः।।।

छंदऋष्यादिन्यासांश्च कुर्यादादौ तथा परान्।
एकाक्षरस्यैव दक्ष षडंगनाचरेत् सुधीः ||5||

ऋष्यादि न्यासः

शिवऋषये नमः शिरसी
अनुष्टुप् छन्दसे नमः मुखे
श्रीमहागणपतीदेवताभ्योनमः ह्रदि
ॐ गँयोगायस्वाहा गँबीजाय नमः गुह्ये
ॐ विद्याऽविद्याशक्तये नमः पादौ

करन्यासः

ॐ गाँ अङ्गुष्ठाभ्याम् नमः
ॐ गीँ तर्जनीभ्यां नमः
ॐ गूँ मध्यमाभ्यां नमः
ॐ गैँ अनामिकाभ्यां नमः
ॐ गौँ कनिष्ठिकाभ्यां नमः
ॐ गः करतलकरपृष्ठाभ्यां नमः

ह्रदयादि न्यासः

ॐ गाँ ह्रदयाय नमः
ॐ गीँ शिरसे स्वाहा
ॐ गूँ शिखायै वषट्
ॐ गैँ कवचाय हुम्
ॐ गौँ नेत्रत्रयाय वौषट्
ॐ गः अस्त्राय फट्

ततो ध्यायेद् गणेशानं ज्योतिरूपधरं परम्।
मनोवाणीविहीनं च चतुर्भुजविराजितम्।। 6।।

शुंडादंडमुखं पूर्णं द्रष्टुं नैव प्रशक्यते।
विद्याऽविद्यासमायुक्तं विभूतिभिरूपासितम्।। 7।।

एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक्।
पंचोपचारर्कैदक्ष ततो जप समाचरेत् ||8||

मानसपूजा

सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टसुगंन्धमुख्यैः ।
मया युतं कल्पितमेकदन्त
गृहाण तेत्वंगविलेपनार्थं।। 1।।

लिप्तेषु वै चित्रमथाष्टगंधै
रंगेषु तेऽहं प्रकरोमि चित्रम्।
मां पाहि चित्तेन विनायक त्वं
रक्तं ततो वर्तुलमेव भाले।। 2।।

आज्येन वै कुंकुमकेन रक्तान्
सूक्ष्माक्षतांस्ते परिकल्पयामि।।
भाले गणाध्यक्ष गृहाण पाहि
भक्तान् सुभक्तिप्रिय दीनबन्धो।। 3।।

गृहाण भोश्चंपकमालतीस्थ
लपंकजान्युंबजपंकजानि।
मया प्रदत्तानि च मल्लिकानि
गणेश पुष्पाणि च रक्तकानि।। 4।।

पुष्पोपरि त्वं मनसा गृहाण
हेरंब मंदारशमीदलानि।
दत्तानि चित्तेन सुकल्पितानि
संख्यातिगानि प्रणवाकृतिते ।। 5।।

दुर्वांकुरान् वै मनसा प्रदत्तान्
पञ्चत्रिपत्रान्वितकार्द्रभूतान्।
श्वेतांश्चविघ्नेश्वर संख्यया त्वं
हीनांश्च सर्वोपरिसंगृहाण।। 6।।

दशांगभूतं मनसा मया ते
धूपं प्रदत्तं गणराज चाग्नौ।
मां पाहि सौरभ्यकरं परेश
सिद्ध्या च बुद्ध्या सह संगृहाण।। 7।।

दीपं सुवर्त्यायुतमादरात्ते
दत्तं मया मानसकं गृहाण।
विघ्नेश कर्पूरभवं गृहाण
तैलादिसंभेतममोघदृष्टे।। 8।।

भोज्यं तु लेह्यं गणराज पेयं
चोष्यं च नानाविधषड्रसाढ्यम्।
हेरंब नैवेद्यमथो गृहाण
संकल्पितं पुष्टिपतेह्यपारम्।। 9।।

आचम्य सर्वेश सुवासितं च
दत्तं मया तीर्थजलं पिबस्व।
संकल्प्य विघ्नेश ततः परं ते
संप्रोञ्छनं हस्तमुखे करोमि।। 10 ।।

चतुर्भुजं पाशधरं गणेशं
तथांऽकुशं वै दधतं च दन्तम्।
त्रिनेत्रयुक्तं ह्यभयधरं तं
महोदरं चैकरदं गजास्यम्।। 11।।

सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः
संपूजितं शक्तियुतं परेशम् ।। 12।।

एकविंशति वारं तु जपं कुर्यात्प्रजापते।।

(मूलेन जपमाचरेत्)

ततो जपं वै मनसा करोमि
स्वमूलमंत्रस्य विधानयुक्तम्।
असंख्यहस्तं गणराज हस्ते
समर्पयाम्येव गृहाण ढुण्ढे।। 13।।

ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत्।। 9।।

रूपं बलं श्रियं देहि यशो वीर्यं गजानन।
मेधा प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते।। 10।।

यदा देवादयः सर्वे कुंठिता दैत्यपैः कृताः।
तदा त्वं तान् निहत्य स्म कुरूषे वीर्यसंयुतान्।। 11।।

तथा मंत्रा गणेशान कुंठिताश्च दुरात्मभिः।
शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमोनमः।। 12।।

शक्तयः कुंठिताः सर्वाः स्मरणेन त्वया प्रभो।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः।। 13।।

चराचरं जगत्सर्वं सत्ताहीनं यद्भवेत्।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते।। 14।।

तत्वानि वीर्यहीनानि यदा जातानि विघ्नप।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः।। 15।।

ब्रह्माणि योगहीनानि जातानि स्मरणेन ते।
यदा पुनर्गणेशान योगयुक्तानि ते नमः।। 16।।

इत्यादि विविधं सर्व स्मरणेन च ते प्रभोः।
सत्तायुक्तं बभूर्वैव विघ्नेशाय ते नमः।। 17।।

तथा मंत्रं गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते।। 18।।

सर्व सत्ता समायुक्तं मंत्रपूजादिकं प्रभो।
मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः।। 19।।

उत्कीलय महामंत्रान् जपेन् स्तोत्र पाठतः।
सर्वसिद्धिप्रदा मंत्रा भवंतु त्वत्प्रसादतः।। 20।।

गणेशाय नमस्तुभ्यं हेरंबायैकदन्तिने।
स्वानंदवासिने तुभ्यं ब्रह्मणस्पतये नमः।। 21।।

गणेशकीलकमिदं कथितं ते प्रजापते।
शिवप्रोक्तं तु मंत्राणामुत्कीलनकरं परम्।। 22।।

यः पठिष्यति भावेन जप्त्वा ते मंत्रमुत्तमम्।
स सर्वसिद्धिमवाप्नोति नाना मंत्रसमुद्भवाम्।। 23।।

एनं त्यक्त्वा गणेशस्य मंत्रं जपति नित्यदा।
स सर्वफलहीनश्च जायते नात्र संशयः।। 24।।

सर्वसिद्धिप्रदं प्रोक्तं कीलकम् परमाद्भुतम्।
पुराऽनेन स्वयं शंभुर्मंत्रजा सिद्धिमालभत्।। 25।।

विष्णुब्रह्मादयो देवा मुनयो योगिनः परे।
अनेन मंत्रसिद्धिं ते लेभिरे च प्रजापते।। 26।।

ऐलः कीलकमाद्यं वै कृत्वा मंत्रपरायणः।
गतः स्वानंदपूर्यां स भक्तराज बभूव ह।। 27।।

सस्त्रीको जडदेहेन ब्रह्मांडमवलोक्य तु।
गणेशदर्शनेनैव ज्योतिरुपो बभूव ह।। 28।।

ॐ इति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लम्बोदर रचिते गणेश कीलक स्तोत्रं संपूर्णम्

Comments